|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.265. अध्यायः 265
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति दक्षाध्वरविध्वंसनत्रिपुरदहनादिरूपरुद्रचरित्रपरिकीर्तनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
दुर्वाससः प्रसादात्ते शंकरांशस्य माघव।
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि॥ 13-265-1(92025)
महाभाग्यं च यत्तस्य नामानि च महात्मनः।
तत्त्वमो ज्ञातुमिच्छामि सर्वं मतिमतांवर॥ 13-265-2(92026)
वासुदेव उवाच। 13-265-3x(7708)
हन्ति ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने।
यदवाप्तं मया राजञ्श्रेयो यच्चार्जितं यशः॥ 13-265-3(92027)
प्रयतः प्रातरुत्थाय यस्त्वधीयेद्विशाम्पते।
प्राञ्जलिः शतरुद्रीयं नास्य किञ्चनि दुर्लभम्॥ 13-265-4(92028)
`शिवः सर्वकतो रुद्रः स्रष्टा यस्त्वं शृणुष्व मे।'
प्रजापतिस्तमसृजत्तमसोऽन्ते महातपाः।
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः॥ 13-265-5(92029)
नास्ति किञ्चित्परं भूतं महादेवाद्विशाम्पते।
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः॥ 13-265-6(92030)
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥ 13-265-7(92031)
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः।
विसंज्ञा हतभूयिष्ठा वेपनेते च पतन्ति च॥ 13-265-8(92032)
घोरं च निनदं तस्य पर्जन्यनिनदोपम्।
श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे।
यं चाक्ष्णा घोररूपेण पश्येद्दग्धः पतेदधः॥ 13-265-9(92033)
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः।
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः॥ 13-265-10(92034)
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ।
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा॥ 13-265-11(92035)
धनुषा वाणमुत्सृज्य सुघोरं विननाद च॥ 13-265-12(92036)
ते न शर्म कुतः शान्ति विषादं लेभिरे सुराः।
विद्धे च सहसा यज्ञे कुपिते च महेश्वरे॥ 13-265-13(92037)
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः।
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः॥ 13-265-14(92038)
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरः।
व्यद्रवग्निरयश्चापि द्यौः पफाल च सर्वशः॥ 13-265-15(92039)
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे।
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत॥ 13-265-16(92040)
भृशं भीतास्ततः शान्तिं चत्रुः स्वस्त्ययनानि च।
ऋषयः सर्वभूतानामात्मनश्च हितैषिमः॥ 13-265-17(92041)
ततः सोऽभ्यद्रवद्देवान्रुद्रो रौद्रपराक्रमः।
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्॥ 13-265-18(92042)
पूषणं चाभिदुद्राव घोरेण वपुषाऽन्वितः।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्॥ 13-265-19(92043)
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम्।
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम्॥ 13-265-20(92044)
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः।
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः॥ 13-265-21(92045)
जेषुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं तदा।
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः॥ 13-265-22(92046)
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्।
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे॥ 13-265-23(92047)
तेन चैव हि तुष्टेन स यज्ञः सन्धितोऽभवत्।
यद्यच्चापहृतं तत्र तत्तथैवान्वजीवयत्॥ 13-265-24(92048)
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि।
आयसं राजतं चैव सौवर्णमपि चापरम्॥ 13-265-25(92049)
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः॥ 13-265-26(92050)
तत ऊचुर्महात्मानो देवाः सर्वे समागताः।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु॥ 13-265-27(92051)
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद।
स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम्॥ 13-265-28(92052)
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम्।
ओङ्कारं च धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमां॥ 13-265-29(92053)
ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः॥ 13-265-30(92054)
शरेणादित्यवर्णेन कालाग्निसमतेजसा।
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत॥ 13-265-31(92055)
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा॥ 13-265-32(92056)
असूयतश्च शक्रस्य वज्रेणि प्रहरिष्यतः।
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्॥ 13-265-33(92057)
न संयुयुधिरे चैव देवास्तं भुवनेश्वरम्।
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे॥ 13-265-34(92058)
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम्।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम्॥ 13-265-35(92059)
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः।
बभूव स तदा बालः प्रययौ तु यथापुरम्॥ 13-265-36(92060)
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्।
द्वारवत्यां मम गृहे चिरं कालमुपावसन्॥ 13-265-37(92061)
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि।
तानुदारतया चाहं चक्षमे चातिदुःसहान्॥ 13-265-38(92062)
स वै रुद्रः स च शिवः सोग्निः सर्वः स सर्वजित्।
स चैवेन्द्रश्च वायुश्च सोऽस्विनौ स च विद्युतः॥ 13-265-39(92063)
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः।
स कालः सोन्तको मृत्युः स यमो रात्र्यहानि च॥ 13-265-40(92064)
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः।
सधाता स विधाता च विश्वकर्मा स सर्ववित्॥ 13-265-41(92065)
नक्षत्राणि ग्रहाश्चैव दिशोऽथ प्रदिशस्तथा।
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः॥ 13-265-42(92066)
एकधा च द्विधा चैव बहुधा च स एव हि।
शतधा सहस्रधा चैव तथा शतसहस्रधा॥ 13-265-43(92067)
ईदृशः स महादेवो भूयश्च भगवानतः।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि॥ ॥ 13-265-44(92068)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्ट्यदिकद्विशततमोऽध्यायः॥ 265 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|